श्लोक
  शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं 
  ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
  रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं 
  वन्देऽहं करुणाकरं रघुवरं भूपालचूड़ामणिम्।।1।।
  नान्या स्पृहा रघुपते हृदयेऽस्मदीये
  सत्यं वदामि च भवानखिलान्तरात्मा।
  भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मे 
  कामादिदोषरहितं  कुरु मानसं च।।2।।
  अतुलितबलधामं     हेमशैलाभदेहं 
  दनुजवनकृशानुं      ज्ञानिनामग्रगण्यम्।
 सकलगुणनिधानं वानराणामधीशं 
 रघुपतिप्रियभक्तं   वातजातं नमामि।।3।।
